Bhagavadgita !

Chapter 13 - Slokas

Kshetra Kshetrajnya Vibhaaga Yoga !

||om tat sat||

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

श्रीमद्भगवद्गीत
क्षेत्र क्षेत्रज्ञ विभाग योगः
त्रयोदशोऽध्यायः

अर्जुन उवाच:
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञ मेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥1||

श्रीभगवानुवाच:

इदं शरीरं कौन्तेय क्षेत्रमित्यभिदीयते।
एतद्योवेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥2||

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।
क्षेत्र क्षेत्रज्ञयोर् ज्ञानं यत्तत् ज्ञानं मतं मम॥3||

तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।
स च यो यत्प्रभावश्च तत्समासेन मे श्रुणु॥4||

ऋषिभिर्भहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥5||

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥6||

इच्छाद्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः।
एतत् क्षेत्रं समासेन सविकार मुदाहृतम्॥7||

अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥8||

इन्द्रियार्थेषु वैराग्यं अनहंकार एव च।
जन्ममृत्यु जराव्याधि दुःखदोषानुदर्शनम्॥9||

असक्ति रनभिष्वङ्गः पुत्र्गः दारगृहादिषु।
नित्यं च समचित्तत्व मिष्टानिष्टोपपत्तिषु॥10||

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।
विविक्तदेश सेवित्वमरतिर्जनसंसदि॥11||

अध्यात्म ज्ञान नित्यत्वं तत्त्वज्ञानार्थदर्शनम्।
एतत् ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा॥12||

ज्ञेयं यत्तत्प्रवक्ष्यामि यत् ज्ञात्वाऽमृतमश्नुते।
अनादिमत्परमं ब्रह्म न सत्तन्नासदुच्यते॥13||

सर्वतः पाणिपादं तत्सर्वतोऽक्षि शिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥14||

सर्वेन्द्रिय गुणाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्छैव निर्गुणं गुणभोक्तृ च॥15||

बहिरन्तश्च भूतानां अचरं चरमेवच।
सूक्ष्मत्वात् अविज्ञेयं दूरस्थं चान्तिकेच तत् ॥16||

अविभक्तं च भूतेषु विभक्तमिव स्थितम्।
भूतभर्तृच तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥17||

ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥18||

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥19||

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।
विकारांश्च गुणांश्चैव विद्धि प्रकृति संभवान्॥20||

कार्यकारण कर्तृत्वे हेतुः प्रकृति रुच्यते।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥21||

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥22||

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥23||

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥24||

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे॥25||

अन्ये त्वेव मजानन्तः श्रुत्वाऽन्येभ्य उपासते।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणः॥26||

यावत्संजायते किंचित् सत्वं स्थावरजङ्गमम्।
क्षेत्र क्षेत्रज्ञ संयोगात् तद्विद्धि भतर्षभ॥27||

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।
विनश्यत्स्वविनश्यन्तम् यः पश्यति स पश्यति॥28||

समं पश्यन् हि सर्वत्र समवस्थित मीश्वरम्।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परांगतिम्॥29||

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।
यः पश्यति तथाऽऽत्मानं अकर्तारं स पश्यति॥30||

यथाभूतपृथक्भावम् एकस्थमनुपश्यति।
तत एव च विस्तारं ब्रह्म संपद्यते तदा॥31||

अनादित्वान्निर्गुणत्वात् परमात्माय मव्ययः।
शरीरस्थोऽपि कौन्तेय न करोति नलिप्यते॥32||

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥33||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥34||

क्षेत्र क्षेत्रज्ञयोरेवं अन्तरं ज्ञानचक्षुषा।
भूतप्रकृति मोक्षं च ये विदुर्यान्ति ते परम्॥35||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे क्षेत्र क्षेत्रज्ञ विभाग योगोनाम
त्रयोदशोsध्यायः
ओं तत् सत्